त्रैमासिक परीक्षा (२०२४-२५) - संस्कृतम्

शासकीय उच्चतर माध्यमिक विद्यालय पड़री, जिला-सीधी (म.प्र.)

त्रैमासिक परीक्षा-सत्रम् (२०२४-२५)

कक्षा - ११ वी

विषयः - संस्कृतम्

पूर्णांक- 80
समयः - ३ होराः
परीक्षार्थिनः अनुक्रमाङ्कः : .......................................... परीक्षार्थिनः हस्ताक्षरम् : ..........................................

निर्देशाः:
  1. सर्वे प्रश्नाः समाधेयाः अनिवार्याः सन्ति।
  2. प्रश्नानाम् अङ्काः तेषां सम्मुखे निर्दिष्टाः।
  3. उत्तरपत्रे स्वच्छतायाः विशेषं ध्यानं दीयताम्।
  4. प्रश्नपत्रं ध्यानपूर्वकं पठित्वा उत्तराणि लिखत।

खण्डः - अ: (वस्तुनिष्ठप्रश्नाः)
प्र. 1. उचितं विकल्पं चित्वा लिखत – (अङ्काः 1×6=6)
(i) 'गत्वा' इत्यस्मिन् पदे कः प्रत्ययः अस्ति?
(अ) शतृ (ब) क्त्वा (स) क्त (द) ल्यप्

(ii) 'विहस्य' इत्यत्र कः प्रत्ययः अस्ति?
(अ) क्त्वा (ब) ल्यप् (स) तुमुन् (द) तव्यत्

(iii) 'पठनीयम्' पदे प्रत्ययः अस्ति-
(अ) शतृ (ब) शानच् (स) क्तवतु (द) अनीयर्

(iv) अधोलिखितेषु अव्ययपदम् अस्ति-
(अ) रामः (ब) फलम् (स) अद्य (द) पठति

(v) 'यदा' इति पदम् अस्ति-
(अ) संज्ञा (ब) सर्वनाम (स) अव्ययम् (द) क्रिया

(vi) अधोलिखितेषु अव्ययपदं न अस्ति-
(अ) शनैः (ब) उच्चैः (स) कुत्र (द) पत्रम्
प्र. 2. उचितपदेन रिक्तस्थानानि पूरयत – (अङ्काः 1×6=6)
(i) 'पीताम्बरः' इत्यत्र ................ समासः अस्ति। (बहुव्रीहिः / कर्मधारयः)
(ii) 'यथाशक्ति' पदस्य विग्रहः ................ भवति। (शक्तिम् अनतिक्रम्य / शक्तेः अनुसारम्)
(iii) 'पञ्चवटी' इत्यत्र ................ समासः अस्ति। (द्विगुः / द्वन्द्वः)
(iv) 'विद्यालयः' पदे ................ सन्धिः अस्ति। (गुणसन्धिः / दीर्घसन्धिः)
(v) 'सज्जनः' पदस्य सन्धिविच्छेदः ................ भवति। (सत् + जनः / सद् + जनः)
(vi) 'प्रत्येक' इत्यत्र ................ सन्धिः अस्ति। (यणसन्धिः / वृद्धिसन्धिः)
प्र. 3. उचितं युग्ममेलनं कुरुत – (अङ्काः 1×7=7)
स्तम्भः (क)स्तम्भः (ख)
(i)पठति(a) उत्तमपुरुषः
(ii)लिखामि(b) लट् लकारः
(iii)भविष्यकालः(c) अनु
(iv)प्राचार्यः(d) प्रथमपुरुषः
(v)अनुसरति(e) मध्यमपुरुषः
(vi)पठसि(f) प्र
(vii)वर्तमानकालः(g) लृट् लकारः
प्र. 4. एकपदेन उत्तरम् लिखत – (अङ्काः 1×6=6)
(i) 'कृष्णः सर्पः' इत्यत्र विशेषणपदम् किम्?
(ii) 'चतुरः बालकः' इत्यत्र विशेष्यपदम् किम्?
(iii) 'सम्प्रदान' कारके का विभक्तिः भवति?
(iv) 'अपादान' कारके का विभक्तिः भवति?
(v) 'सह' योगे का विभक्तिः भवति?
(vi) 'परितः' योगे का विभक्तिः भवति?
प्र. 5. शुद्धवाक्यानां समक्षम् 'आम्' अशुद्धवाक्यानां समक्षं 'न' इति लिखत – (अङ्काः 1×7=7)
(i) 'नेत्रम्' पदस्य पर्यायपदं 'लोचनम्' अस्ति।
(ii) 'पुत्रः' पदस्य पर्यायपदं 'सुतः' अस्ति।
(iii) 'सत्यम्' पदस्य विलोमपदं 'असत्यम्' अस्ति।
(iv) 'प्रकाशः' पदस्य विलोमपदं 'अन्धकारः' अस्ति।
(v) 'सुलभः' पदस्य विलोमपदं 'सरलः' अस्ति।
(vi) 'नवीनम्' पदस्य विलोमपदं 'प्राचीनम्' अस्ति।
(vii) 'उष्णम्' पदस्य विलोमपदं 'शीतम्' अस्ति।
खण्डः - ब: (विषय-आधारितप्रश्नाः)

प्र. 6. बान्धवः कुत्र कुत्र तिष्ठति? (अङ्कौ - 2)

अथवा

जीवनाशा किं करोति?

प्र. 7. तापसी बालाय क्रीडार्थम् किं दत्तवती? (अङ्कौ - 2)

अथवा

बाल: कीदृशम् सिंहशिशुम् कर्षति स्म?

प्र. 8. शुकः क्व निवसति स्म? (अङ्कौ - 2)

अथवा

शुकस्य पिता कीदृशानि फलशकलानि तस्मै अदात्?

प्र. 9. हारीतः कस्य सुतः आसीत्? (अङ्कौ - 2)

अथवा

शबरसेनापतिः कस्मिन् वयसि वर्तमानः आसीत्?

प्र. 10. पुरुषेण के षड् दोषाः हातव्याः? (अङ्कौ - 2)

अथवा

मूर्खः कथम् प्रवीणताम् याति?

प्र. 11. अधोलिखितवाक्ये कः कं प्रति कथयति? - "जृम्भस्व सिंह! दन्तास्ते गणयिष्ये।" (अङ्कौ - 2)

प्र. 12. रेखांकितपदम् आधृत्य प्रश्ननिर्माणं कुरुत – तस्य पश्चिमे तीरे महाजीर्णः शाल्मलीवृक्षः(अङ्कौ - 2)

प्र. 13. प्रश्नपत्रे समागतान् श्लोकान् विहाय स्वपाठ्यपुस्तकात् एकम् सुभाषितम् लिखत। (अङ्कौ - 2)

प्र. 14. वेदाः कति सन्ति? तेषां नामानि लिखत। (अङ्कौ - 2)

प्र. 15. रामायणस्य लेखकः कः? अस्मिन् कति काण्डानि सन्ति? (अङ्कौ - 2)

खण्डः - स: (विश्लेषणात्मकप्रश्नाः)

प्र. 16. अधोलिखितं गद्यांशं पठित्वा प्रश्नानाम् उत्तराणि लिखत- (अङ्काः - 3)

अस्ति मध्यदेशालङ्कारभूता मेखलेव भुवो विन्ध्याटवी नाम। तस्यां च पम्पाभिधानं पद्मसरः। तस्य पश्चिमे तीरे महाजीर्णः शाल्मलीवृक्षः। तस्यैवैकस्मिन् कोटरे निवसतः कथमपि पितुरहमेव सूनुरभवम्।
प्रश्नाः: (क) पम्पाभिधानं पद्मसरः कुत्रासीत्? (ख) शाल्मलीवृक्षः कुत्र स्थितः आसीत्? (ग) कोटरः कुत्र आसीत्?
अथवा
आसीच्च मे मनसि - 'अहो मोहप्रायमेतेषां जीवितम्।' आहारो मधुमांसादिः, श्रमो मृगया, शास्त्रं शिवारुतं, प्रज्ञा शकुनिज्ञानम्। इति चिन्तयस्येव मयि शबरसेनापतिः स आगत्य तस्यैव तरोरधरछायायां समुपाविशत्।
प्रश्नाः: (क) शबरसेनापतिः कुत्र समुपाविशत्? (ख) केषां जीवितं मोहप्रायम् आसीत्? (ग) तेषां शास्त्रं किम् आसीत्?

प्र. 17. अधोलिखितं पद्यांशं पठित्वा प्रश्नानाम् उत्तराणि लिखत- (अङ्काः - 3)

धनानि जीवितं चैव परार्थे प्राज्ञ उत्सृजेत्।
सन्निमित्तं वरं त्यागो विनाशे नियते सति।।
प्रश्नाः: (क) प्राज्ञः किं किम् उत्सृजेत्? (ख) कस्यार्थे प्राज्ञः धनानि जीवितं च उत्सृजेत्? (ग) ‘नियते सति’ इत्यस्य कोऽर्थः?
अथवा
षड्दोषाः पुरुषेणेह हातव्या भूतिमिच्छता।
निद्रा तन्द्रा भयं क्रोध आलस्यं दीर्घसूत्रता॥
प्रश्नाः: (क) भूतिमिच्छता पुरुषेण कति दोषाः हातव्याः? (ख) पद्यांशे के षड्दोषाः उल्लिखिताः? (ग) 'दीर्घसूत्रता' इत्यस्य कोऽर्थः?

प्र. 18. अधोलिखितं नाट्यांशं पठित्वा प्रश्नानाम् उत्तराणि लिखत- (अङ्काः - 3)

बालः- (सस्मितम्) अहो बलीयान् खलु भीतोऽस्मि। (इत्यधरं दर्शयति)
प्रथमा- वत्स! एनं बाल मृगेन्द्रं मुञ्च, अपरं ते क्रीडनकं दास्यामि।
बालः- कुत्र, देहि तत्। (इति हस्तं प्रसारयति)
प्रश्नाः: (क) अपरं किं दास्यामि इति का कथयति? (ख) बालः किं कर्तुं हस्तं प्रसारयति? (ग) ‘भीतोऽस्मि’ इति कः वदति?
अथवा
दुष्यन्तः- अभूमिरियमविनयस्य। को नु खल्वेष निषिध्यते। अये, को नु खल्वयम् अनुबध्यमानस्तपस्विनीभ्याम् अबालसत्त्वो बालः। प्रक्रीडितुं सिंहशिशुं बलात्कारेण कर्षति।
प्रश्नाः: (क) सिंहशिशुं कः बलात् कर्षति स्म? (ख) "अभूमिः इयम् अविनयस्य" इति कः कथयति? (ग) नाट्यांशात् एकम् अव्ययपदं चित्वा लिखत।

प्र. 19. कोष्ठकात् उचितपदं चित्वा रिक्त-स्थान-पूर्तिं कुरुत (कोऽपि त्रयः)- (अङ्काः - 3)

(पुत्रकं, दास्यामि, विन्ध्याटवी, कथयति)
(i) यद्यस्याः ........................ न मुञ्चसि।
(ii) अपरं क्रीडनकं ते ........................।
(iii) अस्ति भुवो मेखलेव ........................ नाम।
(iv) चेष्टितमेवास्य ........................।
खण्डः - द: (दीर्घ-उत्तरीयप्रश्नाः)

प्र. 20. अधोलिखितम् अपठितं गद्यांशं पठित्वा प्रश्नानाम् उत्तराणि लिखत- (अङ्काः - 4)

जननी जन्मभूमिश्च स्वर्गादपि गरीयसी। जन्मभूमिः स्वर्गात् उत्कृष्टतरा अस्ति। सा लोकानां शरणदायिनी, विविधखाद्यपदार्थप्रदायिनी, सर्वव्यवहाराणां लीलाभूमिः च अस्ति। वैदिकः ऋषिः कथयति- माता भूमिः पुत्रोऽहं पृथिव्याः।
प्रश्नाः: (क) का स्वर्गादपि गरीयसी? (ख) 'माता भूमिः पुत्रोऽहं पृथिव्याः' इति कः कथयति? (ग) जन्मभूमिः कीदृशी अस्ति? (घ) अस्य गद्यांशस्य उचितं शीर्षकं लिखत।
अथवा
स्वस्थ-शरीरे एव स्वस्था बुद्धिः वसति। स्वस्था बुद्धिः एव स्वस्थविचाराणां जननी अस्ति। व्यायामशीलः मनुष्यः एव नीरोगः चिरंजीवी च भवति। अतः जीवनस्य कृते व्यायामः परमावश्यकः।
प्रश्नाः: (क) स्वस्था बुद्धिः कुत्र वसति? (ख) कीदृशः मनुष्यः नीरोगः भवति? (ग) जीवनस्य कृते किं परमावश्यकम् अस्ति? (घ) अस्य गद्यांशस्य उचितं शीर्षकं लिखत।

प्र. 21. अधोलिखितेषु एकं विषयं स्वीकृत्य पञ्चवाक्येषु अनुच्छेदं लिखत- (अङ्काः - 4)

(i) संस्कृतभाषायाः महत्त्वम् (ii) मम प्रियः कविः (iii) पर्यावरणम्

प्र. 22. शुल्क-क्षमापनार्थं स्व-प्रचार्यस्य कृते संस्कृते प्रार्थनापत्रं लिखत। (अङ्काः - 4)

अथवा

स्व-मित्राय अध्ययनस्य विषये एकं पत्रं संस्कृते लिखत।

प्र. 23. अधोलिखितेषु कस्यापि एकस्य कवेः संक्षिप्तपरिचयं संस्कृते लिखत – (अङ्काः - 4)

(i) महाकविः कालिदासः (ii) वाल्मीकिः

एक टिप्पणी भेजें

0 टिप्पणियाँ